गुलजारीलाल नन्दा

गुलजारीलाल नन्दा
भारतस्य प्रधानमन्त्री
कार्यालये
11 January 1966  24 January 1966
राष्ट्रपतिः Sarvepalli Radhakrishnan
पूर्वगमः Lal Bahadur Shastri
पादानुध्यातः Indira Gandhi
कार्यालये
27 May 1964  9 June 1964
राष्ट्रपतिः Sarvepalli Radhakrishnan
पूर्वगमः Jawaharlal Nehru
पादानुध्यातः Lal Bahadur Shastri
Minister of Home Affairs
कार्यालये
29 August 1963  14 November 1966
प्रधानमन्त्री Jawaharlal Nehru
Lal Bahadur Shastri
Indira Gandhi
पूर्वगमः Lal Bahadur Shastri
पादानुध्यातः Yashwantrao Chavan
व्यक्तिगत विचाराः
जननम् (१८९८-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-०४)४ १८९८
Sialkot, Punjab, British Raj
(now in Pakistan)
मरणम् १५ १९९८(१९९८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१५) (आयुः ९९)
New Delhi
राजनैतिकपक्षः Indian National Congress
मुख्यशिक्षणम् Allahabad University
जालस्थानम् गुलजारीलाल नन्दा

जन्म

गुल्जारिलाल् नन्दा क्रि.श.१८९८ तमे वर्षे जुलै ४ दिनाङ्के पञ्जाब्राज्यस्य सियाल्कोट्इत्यत्र जन्म प्राप्तवान् । एतस्य पिता कश्चन सामान्यशिक्षकः । अलहाबाद् विश्वविद्यालये अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान् [1]। एतेन सह न्यायशास्त्रस्य परीक्षाम् अपि समापितवान् ।

स्वातन्त्र्यान्दोलने भागः

गान्धिमहोदयस्य प्रभावेन असहकारान्दोलने भागं गृहितवान् । किन्तु आन्दोलनं यदा हिंसा रूपं प्रति परिवर्तितं सत् स्थगितम् अभवत्, तदा गुल्जारिलाल् नन्दः अर्थशास्त्राध्यापकवृत्तिम् आरब्ध्वान् । उद्यमकार्मिकाणां समस्याविषये एतस्य अधिका आसक्तिः आसीत् । अतः १९२२ तमे वर्षे न्याषनल् टेक्सटाइल्स् असोसियेषन् इत्यस्य सङ्घस्य कार्यदर्शी गुल्जारिलाल् नन्द्ः अभवत् ।

राजकीयप्रवेशः

१९३७ तमे वर्षे मुम्बयीराज्यसभा सदस्यः अभवत् । तदा १९३७ तः १९३९ पर्यन्तं कार्मिकराजदेयविभागयोः संसदीयकार्यदर्शिरूपेण सेवां कृतवान् । अनन्तरं १९४६ तः १९५० पर्यन्तं मुम्बयीसर्वकारस्य कार्मिकसचिवः भूत्वा कर्मकराणां समस्यानां विषये शासनरचने यशस्वी अभवत् । गुल्जरिलाल् नन्दः कस्तूरबा मेमोरियल् न्यासस्य अध्यक्षः, हिन्दूस्थान मज्दूर् सेवकसङ्घस्य कार्यदर्शी, तथैव मुम्बयीगृहमण्डल्याः अध्यक्षः, राष्ट्रियसमित्याः सदस्यः च भूत्वा सेवां कृतवान् । १९४७ तमे वर्षे अन्ताराष्ट्रियकार्मिकसमावेशे भारतस्य प्रधानी भूत्वा भागं गृहितवान् । एषः समावेशः लण्डन्- स्वीडन्- फ़्रान्स्- बेल्जियम्- इन्ग्लेण्ड्देशानां कर्मकराणां वसतिसमस्यायाः अध्ययनं नियोजनं च अकरोत् ।

विशिष्टकार्यक्रमेषु भागः

१९५० तमे वर्षस्य योजना समितेः उपाध्यक्षः अभवत् । अनन्तरं केन्द्र सर्वकारः एतं योजनासचिवः इति न्ययोजयत् । एतेन कार्येण सह जलविद्युत्विभागयोः दायित्वम् अपि निरूढवान् । १९५२ तमे वर्षे निर्वाचने जयं प्राप्तवान् एषः पूर्वतनविभागे एव कार्यं कृतवान् । १९५५ तमे वर्षे सिङ्गापूरे आयोजिते योजनासमीतेः समावेशे तथैव १९५९ तमे वर्षे जिनीवायाम् आयोजिते अन्ताराष्ट्रियकार्मिकाणां सभाम् अपि एषः भारतस्य अधिकृतप्रतिनिधिरूपेण भागं गृहितवान् । १९५७ तमे वर्षे प्रवृत्ते निर्वचने गुल्जारिलाल् नन्दः जयं प्राप्तवान् । तदा कार्मिक-उद्योग- योजनाविभागानां केन्द्रसचिवः इति नियुक्तः । अनन्तरं योजनायोगस्य उपाध्यक्षः अभवत् । १९६२ तमे वर्षे पुनः गुजरातस्य समरकण्डतः निर्वाचितः एषः समाजवादिनीत्या सर्वकारस्य अवधानम् आकृष्टवान् । तस्मिन् एव वर्षे कार्मिक-उद्योगसचिवः भूत्वा एषः १९६३ तः १९६६ पर्यन्तं गृहसचिवः अभवन् । श्रीमत्याः इन्दिरागान्ध्याः सचिवसम्पुटे गृहसचिवः एषः नन्दः १९७० तमे वर्षे किञ्चित् कालं यावत् रेल्वेसचिवः अपि अभवत् । तदा प्रयाणिकानां कृते अनेकव्यवस्थाः कृतवान् । रेल्वेविभागः स्वसामर्थ्यं प्राप्नोत् । व्ययं न्यूनं कृतवान् । निरुद्योगं निवारयितुं परिश्रमं कृतवान् । धूमशकटयाने तस्य निस्थानके च पानजलस्य तथैव शौचालयस्य व्यवस्थां कृतवान् ।

तात्कालिकप्रधानमन्त्रित्वम्

१९७२ तमे वर्षे राजकीयनिवृत्तिं स्वीकृतवान् । अनन्तरं भाटकगृहे वासं कृतवान् किन्तु भाटकं दातुम् अपि तस्य समीपे धनं न आसीत् । तस्य आदायस्य मूलं किमपि न आसीत् । मित्राणाम् आग्रहेण स्वातन्त्र्ययोद्धानां निवृत्तिवेतननिमित्तम् आवेदनपत्रं दत्त्वा मासे त्रिशतरूप्यकाणि स्वीकरोति स्म । श्रेष्ठः गान्धिवादी एषः तात्कालिकप्रधानमन्त्रिरूपेण कार्यं निरूढवान् । तात्कालिकमन्त्री चेदपि तस्य निष्ठा श्रद्धा अपूर्वा आसीत् । १९६४तमवर्षस्य मे मासस्य१७ दिनाङ्कतः षोडशदिनानि (नेहरू मरणानन्तरं)यावत् तथा १९६६तमवर्षस्य जनवरीमासस्य ११ दिनाङ्कतः चतुर्दशदिनानि यावत् नन्दः प्रधानमन्त्री आसीत् ।[2]

जीवने आदर्शः

१९७० तमे वर्षे स्वातन्त्र्योत्सवस्य दिने भारतदेशः एतं भारतरत्नपुरस्कारेण सम्माननं करणीयम् इति चिन्तनम् अकरोत् । किन्तु एषः अनारोग्यस्य कारणेन प्रशस्तिं स्वीकर्तुं न आगतवान् । तदा सह अहमदाबादे पुत्र्याः गृहे आसीत् । १९९८तमवर्षस्य जनवरीमासस्य १५ दिनाङ्के गुल्जारिलाल् नन्दा शतवर्षाणां जीवनं समाप्य दिवङ्गतः ।

टिप्पणी

  1. "" Internet Archive of Proud Past Alumni"". Retrieved 27 अप्रैल 2014.
  2. "Famous Indians". Retrieved 27 अप्रैल 2014.

बाह्यसम्पर्कतन्तुः

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.